Tuesday, September 23, 2014

गोत्राचार

गोत्राचार

              ओउम् जदूवासरूपम् पूज्यत्रम् सामनिधिम् गुणनिधिम्। आकाश पितरम्। सतारामम्। पंचम पाताल मुखम्। वरूण ते शिव मुखम्।1। श्रीपार्वत्युवाच कस्मिन्मासे। कस्मिन् पक्षे। कस्मिन् तिथौ। कस्मिन्वासरे। कस्मिन् नक्षत्रे। कस्मिन् लग्ने। उत्पन्नोऽसौ।2। श्री महादेवउवाच। आषाढ मासे कृष्ण पक्षे, अद्र्धरात्रौ। मीनलग्ने चतुर्दश्यां शनिवासरे, रोहिणी नक्षत्रे, ऊध्र्वमुखे, दृष्टपाताले, अगोचरन्नामाग्नि:।3। श्रीपार्वत्युवाच। कातस्य माता क्वतस्य पिता क्वतस्य गोत्र: कति जिह्वा प्रकाशित।4। श्रीमहादेव उवाच। अरणस माता वरूणस्पिता, शाण्डिल्यगोत्रे, वनस्पतिपुत्रम् पावकनामकम् वसुन्धरम्।5। चत्वारि श्रृंगा त्रयो अस्य पादा द्वेशीर्षे सप्तहस्तासोऽस्य। त्रिधावद्धो वृषभोरोरवीति महोदेवोमित्र्यां आविवेश।6। निखिलब्रह्माण्डमुदरे यस्य द्वादश लोचनम्। सप्त जिह्वा। काली कराली च मनोजवा च सुलोहिता य च सुधूम्रवर्णा स्फुलिगिनी विश्वरूपी च देवी लेलायमाना इति सप्तजिह्वा।8। प्रथमस्तु घृतम् द्वितीये यवम्। तृतीये तिलम्। चतुर्थे दधि। पंचमे क्षीरम्। षष्ठे श्रीखंडम्। सप्तमे मिष्टानम्। एतानि सप्तअग्नेर्भोजनानि। एतै: सप्तजिह्वा प्रकाश्यन्ते।9। ऊध्र्वमुखा धोमुखा भिमुखै: साहायं करोति। घृतमिष्ठान्नादि पदार्था: महाविष्णु मुखे प्रविशन्ति। सर्वे देवा ब्रह्मा विष्णु: महेश्वरादयस्तृप्यन्ति।10।

0 comments:

Post a Comment